Tuesday, January 17, 2017

शिवविरचितं आम्नायस्तोत्रम्

shiv rachit aamnaya stotra
Shiv Shakti

Shiv Rachit Aamnaya Stotra


॥ शिवविरचितं आम्नायस्तोत्रम् ॥


श्रीनाथादिगुरुत्रयं गणपतिं पीठत्रयं भैरवम् ।
सिद्धौघं वटुकत्रयं पदयुगं दूतीक्रमं मण्डलम् ॥

वीरान्द्व्यष्टचतुष्कषष्टिनवकं वीरावलीपञ्चकम् ।
श्रीमन्मालिनिमन्त्रराजसहितं वन्दे गुरोर्मण्डलम् ॥

(गुरुपादुकामनुमुच्चार्य सुमुखादिभिः
पञ्चमुद्राभिः श्रीगुरुं प्रणम्य)

शुद्धविद्या च बाला च द्वादशार्धा मतङ्गिनी ।
द्विजत्वसाधिनी विद्या गायत्री वेदमातृका ॥ १॥

गाणपत्यं कार्तिकेयं मृत्युञ्जयं नीलकण्ठम् ।
त्र्यम्बकं जातवेदाश्च तथा प्रत्यङ्गिरादयः ॥ २॥

मुखात्तत्पुरुषाज्जाता द्विकोटीमन्त्रनायिकाः ।
एताः कामगिरीन्द्राश्च पूर्वाम्नायस्य देवताः ॥ ३॥

गुरुत्रयादिपीठान्तं चतुर्विंशत्सहस्रकम् ।
एतदावरणोपेतं पूर्वाम्नायं भजाम्यहम् ॥  ४॥

विशुद्धौ चिन्तयेद्धीमान् पूर्वाम्नायस्य देवताः ।
सौभाग्यविद्या बगळा वाराही वटुकस्तथा ॥ ५॥

श्रीतिरस्करिणी प्रोक्ता महामाया प्रकीर्तिता ।
अघोरं शरभं खङ्गरावणं वीरभद्रकम् ॥ ६॥

रौद्रं शास्ता पाशुपताद्यस्त्रशस्त्रादिभैरवाः ।
दक्षिणामूर्तिमन्त्राद्याः शैवागमसमुद्भवाः ॥ ७॥

अघोरमुखसम्भूतं मदंशं कोटिसङ्ख्यकम् ।
पूर्वपीठस्थिता देवि दक्षिणाम्नायदेवताः ॥  ८॥

द्विसहस्रं तु देव्यस्ताः परिवारसमन्विताः ।
भैरवादिपदद्वन्द्वं भजे दक्षिणमुत्तमम् ॥ ९॥

अनाहते चिन्तयेच्च दक्षिणाम्नायदेवताः ।
लोपामुद्रा महादेवी अम्बा च भुवनेश्वरी ॥ १०॥

अन्नपूर्णा कामकला सर्वसिद्धिप्रदायिनी।
सुदर्शनं वैनतेयं कार्तवीर्यं नृसिंहकम् ॥ ११॥

नामत्रयं राममन्त्रं गोपालं सौरमेव च ।
धन्वन्तरीन्द्वजालं च इन्द्रादिसुरमन्त्रकम् ॥  १२॥

दत्तात्रेयं द्वादशाष्टौ वैष्णवागमचोदिताः ।
सद्योजातमुखोद्भूता मन्त्राः स्युः कोटिसङ्ख्यकाः ॥ १३॥

एता जालन्ध्रपीठस्थाः पश्चिमाम्नायदेवताः ।
दूत्यादि च चतुष्षष्टि सिद्धान्तं त्रिसहस्रकम् ॥ १४॥

आम्नाय पश्चिमं वन्दे सर्वदा सर्वकामदम् ।
मणिपूरे चिन्तनीयाः पश्चिमाम्नायदेवताः ॥ १५॥

तुरीयाम्बा महार्धा च अश्वारूढा तथैव च ।
मिश्राम्बा च महालक्ष्मीः श्रीमद्वाग्वादिनी अपि ॥  १६॥

दुर्गा काळी ततश्चण्डी नकुली च पुळिन्दिनी ।
रेणुका लक्ष्मिवागीशमातृकाद्याः स्वयंवरा ॥  १७॥

पञ्चाम्नायसमोपेतं श्रीविद्याख्यं मदंशकम् ।
वामदेवमुखोद्भूता द्विकोटिमन्त्रनायिकाः ॥  १८॥

एता ओड्याणपीठस्थाः शाक्तागमसमुद्भवाः ।
द्विसहस्रं तु देव्यस्ताः परिवारसमन्विताः ॥  १९॥

मुद्रादिनवकं चैव सिद्धानां मिथुनं तथा ।
वीरावळीपञ्चकं च भजेदाम्नायमुत्तरम् ॥  २०॥

स्वाधिष्ठाने चिन्तनीया उत्तराम्नायदेवताः ।
परापरा च सा देवी पराशाम्भवमेव च ॥  २१॥

प्रासादं दहरं हंसं महावाक्यादिकं परम् ।
पञ्चाक्षरं महामन्त्रं तारकं जन्मतारकम् ॥  २२॥

ईशानमुखसम्भूतं स्वात्मानन्दप्रकाशकम् ।
कोटिसङ्ख्या महादेवि मद्रूपाः सर्वसिद्धिदाः ॥ २३॥

एताः शाम्भवपीठस्थाः सहस्रपरिवारिताः ।
आराध्य मालिनीपूर्वं मण्डलान्तं तथैव च ॥ २४॥

सायुज्यहेतुकं नित्यं वन्दे चोर्ध्वमकल्मषम् ।
ऊर्ध्वाम्नायमनून्नित्यं मूलाधारे विभावयेत् ॥ २५॥

पञ्चाम्बा नवनाथाश्च मूलविद्यास्ततः परम् ।
आधारविद्याषट्कं च पुनरङ्घ्रिद्वयं क्रमात् ॥  २६॥

शाम्भवी चाथ हृल्लेखा समया परबोधिनी ।
कौलपञ्चाक्षरी पञ्चदशार्णाऽनुत्तरात्मिका ॥ २७॥

षोडशी पूर्तिविद्या च महात्रिपुरसुन्दरी ।
ऊर्ध्वश्रीपादुकापूर्वं चरणान्तं गुरुक्रमात् ॥ २८॥

पश्चादनुतरं वन्दे परब्रह्मस्वरूपिणीम् ।
अनुत्तराम्नायमनूनाज्ञानाचक्रे विभावयेत् ॥ २९॥

श्रीनाथगुरुमन्त्रादीन् मण्डलान्तं यथाक्रमम् ।
सप्तकोटिमहामन्त्रं द्वादशान्ते सदा स्मरेत् ॥ ३०॥

शुचिर्वाप्यशुचिर्वापि गच्छंस्तिष्ठन् स्वपन्नपि ।
मन्त्रैकशरणो विद्वान् मनसापि सदा स्मरन् ॥ ३१॥

तत्तत्सिद्धिं च साहस्रं जपेत्साधकपुङ्गवः ।
जपान्ते शुद्धमाला च आम्नायस्तोत्रमुत्तमम् ॥ ३२॥

ललितानामसाहस्रं सर्वपूर्तिकरं स्तवम् ।
स्तवराजं च पञ्चैते भक्तः प्रतिदिनं पठेत् ॥ ३३॥

भुक्त्वा भोगान् यथाकामं सर्वभूतहिते रतः ।
सभार्यापुत्रसौभाग्यः सभूतिः पशुमान् भवेत् ॥ ३४॥

एकवारं जपेदेतत् कोटियज्ञफल लभेत् ।
एतद्विज्ञानमात्रेण सर्वेषां देशिकोत्तमः ॥

शिवसायुज्यमाप्नोति शिवयोरेवशासनात् ॥ ३५॥

॥ इति रुद्रयामलतः शिवविरचितं आम्नायस्तोत्रम् ॥

आनन्दलहरी - Adi Shankaracharya

Ananda Lahari by Adi Shankaracharya
Lalita Devi

Ananda Lahari by Adi Shankaracharya


॥ आनन्दलहरी ॥


भवानि स्तोतुं त्वां प्रभवति चतुर्भिर्न वदनैः
प्रजानामीशानस्त्रिपुरमथनः पञ्चभिरपि ।
न षड्भिः सेनानीर्दशशतमुखैरप्यहिपतिः
तदान्येषां केषां कथय कथमस्मिन्नवसरः ॥ १॥

घृतक्षीरद्राक्षामधुमधुरिमा कैरपि पदैः
विशिष्यानाख्येयो भवति रसनामात्र विषयः ।
तथा ते सौन्दर्यं परमशिवदृङ्मात्रविषयः
कथंकारं ब्रूमः सकलनिगमागोचरगुणे ॥ २॥

मुखे ते ताम्बूलं नयनयुगळे कज्जलकला
ललाटे काश्मीरं विलसति गळे मौक्तिकलता ।
स्फुरत्काञ्ची शाटी पृथुकटितटे हाटकमयी
भजामि त्वां गौरीं नगपतिकिशोरीमविरतम् ॥ ३॥

विराजन्मन्दारद्रुमकुसुमहारस्तनतटी
नदद्वीणानादश्रवणविलसत्कुण्डलगुणा
नताङ्गी मातङ्गी रुचिरगतिभङ्गी भगवती
सती शम्भोरम्भोरुहचटुलचक्षुर्विजयते ॥ ४॥

नवीनार्कभ्राजन्मणिकनकभूषणपरिकरैः
वृताङ्गी सारङ्गीरुचिरनयनाङ्गीकृतशिवा ।
तडित्पीता पीताम्बरललितमञ्जीरसुभगा
ममापर्णा पूर्णा निरवधिसुखैरस्तु सुमुखी ॥ ५॥

हिमाद्रेः संभूता सुललितकरैः पल्लवयुता
सुपुष्पा मुक्ताभिर्भ्रमरकलिता चालकभरैः ।
कृतस्थाणुस्थाना कुचफलनता सूक्तिसरसा
रुजां हन्त्री गन्त्री विलसति चिदानन्दलतिका ॥ ६॥

सपर्णामाकीर्णां कतिपयगुणैः सादरमिह
श्रयन्त्यन्ये वल्लीं मम तु मतिरेवं विलसति ।
अपर्णैका सेव्या जगति सकलैर्यत्परिवृतः
पुराणोऽपि स्थाणुः फलति किल कैवल्यपदवीम् ॥ ७॥

विधात्री धर्माणां त्वमसि सकलाम्नायजननी
त्वमर्थानां मूलं धनदनमनीयांघ्रिकमले ।
त्वमादिः कामानां जननि कृतकन्दर्पविजये
सतां मुक्तेर्बीजं त्वमसि परमब्रह्ममहिषी ॥ ८॥

प्रभूता भक्तिस्ते यदपि न ममालोलमनसः
त्वया तु श्रीमत्या सदयमवलोक्योऽहमधुना  ।
पयोदः पानीयं दिशति मधुरं चातकमुखे
भृशं शङ्के कैर्वा विधिभिरनुनीता मम मतिः ॥ ९॥

कृपापाङ्गालोकं वितर तरसा साधुचरिते
न ते युक्तोपेक्षा मयि शरणदीक्षामुपगते ।
न चेदिष्टं दद्यादनुपदमहो कल्पलतिका
विशेषः सामान्यैः कथमितरवल्लीपरिकरैः ॥  १०॥

महान्तं विश्वासं तव चरणपङ्केरुहयुगे
निधायान्यन्नैवाश्रितमिह मया दैवतमुमे ।
तथापि त्वच्चेतो यदि मयि न जायेत सदयं
निरालम्बो लम्बोदरजननि कं यामि शरणम् ॥ ११॥

अयः स्पर्शे लग्नं सपदि लभते हेमपदवीं
यथा रथ्यापाथः शुचि भवति गंगौघमिलितम् ।
तथा तत्तत्पापैरतिमलिनमन्तर्मम यदि
त्वयि प्रेम्णासक्तं कथमिव न जायेत विमलम् ॥ १२॥

त्वदन्यस्मादिच्छाविषयफललाभे न नियमः
त्वमर्थानामिच्छाधिकमपि समर्था वितरणे ।
इति प्राहुः प्राञ्चः कमलभवनाद्यास्त्वयि मनः
त्वदासक्तं नक्तं दिवमुचितमीशानि कुरु तत् ॥ १३॥

स्फुरन्नानारत्नस्फटिकमयभित्तिप्रतिफल
त्त्वदाकारं चञ्चच्छशधरकलासौधशिखरम् ।
मुकुन्दब्रह्मेन्द्रप्रभृतिपरिवारं विजयते
तवागारं रम्यं त्रिभुवनमहाराजगृहिणि ॥ १४॥

निवासः कैलासे विधिशतमखाद्याः स्तुतिकराः
कुटुम्बं त्रैलोक्यं कृतकरपुटः सिद्धिनिकरः ।
महेशः प्राणेशस्तदवनिधराधीशतनये
न ते सौभाग्यस्य क्वचिदपि मनागस्ति तुलना ॥ १५॥

वृषो वृद्धो यानं विषमशनमाशा निवसनं
श्मशानं क्रीडाभूर्भुजगनिवहो भूषणविधिः
समग्रा सामग्री जगति विदितैव स्मररिपोः
यदेतस्यैश्वर्यं तव जननि सौभाग्यमहिमा ॥ १६॥

अशेषब्रह्माण्डप्रलयविधिनैसर्गिकमतिः
श्मशानेष्वासीनः कृतभसितलेपः पशुपतिः ।
दधौ कण्ठे हालाहलमखिलभूगोलकृपया
भवत्याः संगत्याः फलमिति च कल्याणि कलये ॥ १७॥

त्वदीयं सौन्दर्यं निरतिशयमालोक्य परया
भियैवासीद्गंगा जलमयतनुः शैलतनये ।
तदेतस्यास्तस्माद्वदनकमलं वीक्ष्य कृपया
प्रतिष्ठामातन्वन्निजशिरसिवासेन गिरिशः ॥ १८॥

विशालश्रीखण्डद्रवमृगमदाकीर्णघुसृण
प्रसूनव्यामिश्रं भगवति तवाभ्यङ्गसलिलम् ।
समादाय स्रष्टा चलितपदपांसून्निजकरैः
समाधत्ते सृष्टिं विबुधपुरपङ्केरुहदृशाम् ॥ १९॥

वसन्ते सानन्दे कुसुमितलताभिः परिवृते
स्फुरन्नानापद्मे सरसि कलहंसालिसुभगे ।
सखीभिः खेलन्तीं मलयपवनान्दोलितजले
स्मरेद्यस्त्वां तस्य ज्वरजनितपीडापसरति ॥ २०॥

॥ इति श्रीमच्छङ्कराचार्यविरचिता आनन्दलहरी सम्पूर्णा ॥

Friday, January 13, 2017

आद्यास्तोत्रम् Adhyashakti stotram

Adhyashakti stotram
Adhyashakti

॥ आद्यास्तोत्रम् ॥

शृणु वत्स प्रवक्ष्यामि आद्या स्तोत्रं महाफलम् । यः पठेत् सततं भक्त्या स एव विष्णुवल्लभः ॥ १॥ मृत्युर्व्याधिभयं तस्य नास्ति किञ्चित् कलौ युगे । अपुत्रा लभते पुत्रं त्रिपक्षं श्रवणं यदि ॥ २॥ द्वौ मासौ बन्धनान्मुक्ति विप्रवक्त्रात् श्रुतं यदि । मृतवत्सा जीववत्सा षण्मासं श्रवणं यदि ॥ ३॥ नौकायां सङ्कटे युद्धे पठनाज्जयमाप्नुयात् । लिखित्वा स्थापयेद्गेहे नाग्निचौरभयं क्वचित् ॥ ४॥ राजस्थाने जयी नित्यं प्रसन्नाः सर्वदेवता । ॐ ह्रीं ब्रह्माणी ब्रह्मलोके च वैकुण्ठे सर्वमङ्गला ॥ ५॥ इन्द्राणी अमरावत्यामविका वरुणालये। यमालये कालरूपा कुबेरभवने शुभा ॥ ६॥ महानन्दाग्निकोने च वायव्यां मृगवाहिनी । नैऋत्यां रक्तदन्ता च ऐशाण्यां शूलधारिणी ॥ ७॥ पाताले वैष्णवीरूपा सिंहले देवमोहिनी । सुरसा च मणीद्विपे लङ्कायां भद्रकालिका ॥ ८॥ रामेश्वरी सेतुबन्धे विमला पुरुषोत्तमे । विरजा औड्रदेशे च कामाक्ष्या नीलपर्वते ॥ ९॥ कालिका वङ्गदेशे च अयोध्यायां महेश्वरी । वाराणस्यामन्नपूर्णा गयाक्षेत्रे गयेश्वरी ॥ १०॥ कुरुक्षेत्रे भद्रकाली व्रजे कात्यायनी परा । द्वारकायां महामाया मथुरायां माहेश्वरी ॥ ११॥ क्षुधा त्वं सर्वभूतानां वेला त्वं सागरस्य च । नवमी शुक्लपक्षस्य कृष्णसैकादशी परा ॥ १२॥ दक्षसा दुहिता देवी दक्षयज्ञ विनाशिनी । रामस्य जानकी त्वं हि रावणध्वंसकारिणी ॥ १३॥ चण्डमुण्डवधे देवी रक्तबीजविनाशिनी । निशुम्भशुम्भमथिनी मधुकैटभघातिनी ॥ १४॥ विष्णुभक्तिप्रदा दुर्गा सुखदा मोक्षदा सदा । आद्यास्तवमिमं पुण्यं यः पठेत् सततं नरः ॥ १५॥ सर्वज्वरभयं न स्यात् सर्वव्याधिविनाशनम् । कोटितीर्थफलं तस्य लभते नात्र संशयः ॥ १६॥ जया मे चाग्रतः पातु विजया पातु पृष्ठतः । नारायणी शीर्षदेशे सर्वाङ्गे सिंहवाहिनी ॥ १७॥ शिवदूती उग्रचण्डा प्रत्यङ्गे परमेश्वरी । विशालाक्षी महामाया कौमारी सङ्खिनी शिवा ॥ १८॥ चक्रिणी जयधात्री च रणमत्ता रणप्रिया । दुर्गा जयन्ती काली च भद्रकाली महोदरी ॥ १९॥ नारसिंही च वाराही सिद्धिदात्री सुखप्रदा । भयङ्करी महारौद्री महाभयविनाशिनी ॥ १०॥ इति ब्रह्मयामले ब्रह्मनारदसंवादे आद्या स्तोत्रं समाप्तम् ॥ ॥ ॐ नम आद्यायै ॐ नम आद्यायै ॐ नम आद्यायै ॥